रथकाराकरणन्यायः

विकिसूक्तिः तः

रथकार इति शब्दस्य सामान्यतः रथं करोति । इत्यर्थे सौधन्वननामकः इत्यर्थः । त्रैवर्णिकानाम् अत्र समावेशः नास्ति ।

तस्मात् अत्रैवर्णिको रथकारः (मीमांसासूत्रभाष्ये ६-१-४४) योगाद् रुढिर्बलीयसी इति खलु उच्यते । यौगिकार्यस्य अपेक्षया रुढ्यर्थस्य बलीयस्त्वं रथकारन्यायेन बोध्यते । मीमांसाभाष्य ६-१-४४-५०) ‘रथकार आदधीत’ इति विधिवाक्यम् अस्ति । तत्र रथकारनामकः ब्राह्मण इति अर्थः गृह्यते ।

यथा- आधाने खलु श्रूयते वर्षासु रथकार आदधीत इतिचेत्, मैवं- संकीर्णजातिविशेषरुढत्वात् । वैश्यायां क्षत्रियाद् उत्पन्नः महिष्यः । शूद्रायां वैश्यात् उत्पन्ना करणी । तस्यां करण्यां महिष्याद् उत्पन्नः रथकारः । तथा च याज्ञवल्क्यः  : माहिष्येण करण्यां तु रथकारः प्रजायते इति । जैमिनीयन्यायमालाविस्तरः

"https://sa.wikiquote.org/w/index.php?title=रथकाराकरणन्यायः&oldid=10986" इत्यस्माद् प्रतिप्राप्तम्