रवीन्द्रनाथठाकूरः

विकिसूक्तिः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
त्वत्पादयुग्मं शरणं प्रपद्ये इत्येतत् भवतु मम अन्तिमं वचनम् ।

रवीन्द्रनाथठाकूरः (मे ७, १८६१ - आगस्ट् ७, १९४१) वङ्गीयः तत्त्वज्ञानी, कविः, १९१३ तमस्य वर्षस्य नोबेल्-प्रशस्ति(साहित्यम्)विजेता च ।

अमृतवचनानि[सम्पाद्यताम्]

  • भारतदेशे मम प्रीतिः सेवाभावः च तस्य विशालस्य भौगोलिकस्य आकारस्य, वैभवोपेतस्य इतिहासस्य वा कारणतः न, प्रत्युत सः सत्ये स्वातन्त्र्ये उच्चतरजीवनादर्शे च आस्थावान् अस्ति इति कारणतः । वयं जानीमः यत् किञ्चन लक्ष्यं भारतवर्षं सर्वदा प्रेरयति इति । तच्च - विविधतायाम् एकत्वपरिकल्पनं, गन्तव्यं प्रति विभिन्नानाम् उपासनपद्धतीनां नयनम्, ‘अनेकेषु एकत्वम्’ इत्येतस्य तत्त्वस्य याथार्थ्येन अनुभवनं, विभेदेषु वहतः आन्तरिकैकतारूपस्य सर्वोच्चसिद्धान्तस्य दृढनिश्चयपुरस्सरम् अनुसरणं चेति । बाह्यजगति दृश्यमानानि वैशिष्ट्यानि अनाशयता एव तेन एतानि अधिगन्तुं प्रयासः क्रियमाणः अस्ति । विविधतायाम् एकत्वस्य अनुभूतिः, एकतायाः विस्ताराय अखण्डः प्रयासः इत्येतदुभयं भारतस्य सहजं स्वाभाविकं वैशिष्ट्यम् अस्ति ।

बाह्यशृङ्खला[सम्पाद्यताम्]



"https://sa.wikiquote.org/w/index.php?title=रवीन्द्रनाथठाकूरः&oldid=14766" इत्यस्माद् पुनः प्राप्तिः