रामायणसूक्तयः (अर्थः)

विकिसूक्तिः तः

१. अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।

तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण ॥ (अरण्यकाण्डः ४३/३४)

२. दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः । (युद्धकाण्डः १११/८९)

३. यद् द्रव्यं बान्धवानां वा

मित्राणां वा क्षये भवेत् ।
नाहं तत् प्रतिगृह्णीयां
भक्ष्यान् विषकृतानिव ॥ (अयोध्याकाण्डः ९७/४)

४. अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः ।

क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ (युद्धकाण्डः ८३/३२)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(अर्थः)&oldid=2867" इत्यस्माद् प्रतिप्राप्तम्