रामायणसूक्तयः (जाबालेः नास्तिकमतम्)
दिखावट
१. कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
- एको हि जायते जन्तुरेक एव विनश्यति ॥ (अयोध्याकाण्डः १०८/३)
२. गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।
- प्रवृत्तिरेषा भूतानां त्वं तु मिथ्या विहन्यसे ॥ (अयोध्याकाण्डः १०८/१२)
३. बीजमात्रं पिता जन्तोः शुक्रं शोणितमेव च ।
- संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ (अयोध्याकाण्डः १०८/११)