रामायणसूक्तयः (दण्डः)

विकिसूक्तिः तः

१. अपराधिषु यो दण्डः पात्यते मानवेषु वै ।

स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ (उत्तरकाण्डः ७९/९)

२. अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।

पलायमानं मतं वा न हन्तुं त्वमिहार्हसि ॥ (युद्धकाण्डः ८०/३९)

३. अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः । (उत्तरकाण्डः (प्रक्षिप्तः ) २/३४)

४. गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।

उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ (अयोध्याकाण्डः २१/२३)

५. दण्ड एव वरो लोके पुरुषस्येति मे मतिः ।

धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ (युद्धकाण्डः २२/४९)

६. सम्यक् प्रणिहिते दण्डे प्रजा भवति रक्षिता । (उत्तरकाण्डः (प्रक्षिप्तः ) २/३२)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(दण्डः)&oldid=2953" इत्यस्माद् प्रतिप्राप्तम्