रामायणसूक्तयः (दूतः)

विकिसूक्तिः तः

१. घातयन्तीह कार्याणि दूताः पण्डितमानिनः ।(सुन्दरकाण्डः २/४०)

२. दूता न वध्याः समयेषु राजन् ।

सर्वेषु सर्वत्र वदन्ति सन्तः ॥ (सुन्दरकाण्डः ५२/१३)

३. न दूतो वधमर्हति । (सुन्दरकाण्डः ५२/२१)

४. भूताश्चार्या विनश्यन्ति देशकालविरोधिताः ।

विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ (सुन्दरकाण्डः २/३९)

५. वैरूप्यमङ्गेषु कशाभिघातो

मौण्ड्यं तथा लक्षणसंनिपातः ।
एतान् हि दूते प्रवदन्ति दण्डान् ॥ (सुन्दरकाण्डः ५२/१५)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(दूतः)&oldid=2965" इत्यस्माद् प्रतिप्राप्तम्