रामायणसूक्तयः (नारीधर्मः)

विकिसूक्तिः तः
Jump to navigation Jump to search

१. असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।

भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ (अयोध्याकाण्डः ३९/२०)

२. आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।

स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ (अयोध्याकाण्डः २०/४)

३. एष स्वभावो नारीणामनुभूय पुरा सुखम् ।

अल्पामप्यपदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ (अयोध्याकाण्डः ३९/२१)

४. गतिरेका पतिर्नार्या द्वितीया गरिरात्मजः ।

तृतीया ज्ञातयो राजंश्चतुर्थी नैव विद्यते ॥ (अयोध्याकाण्डः ६१/२४)

५. न कुलं न कृतं विद्या न दत्तं नापि संग्रहः ।

स्त्रीणां गृह्णति हृदयमनित्यहृदया हि ताः ॥ (अयोध्याकाण्डः ३९/२३)

६. न गृहाणि न वस्त्राणि न प्राकारस्तिरस्क्रिया ।

नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ (युद्धकाण्डः ११४/२७)

७. न पिता नात्मजूवात्मा न माता न सखीजनः ।

इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ (अयोध्याकाण्डः २०/६)

८. नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः ।

नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ (अयोध्याकाण्डः ३९/२९)

९. पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले । (युद्धकाण्डः १११/६६)

१०. प्रासादाग्रे विमानैर्वा वैहायसगतेन वा ।

सर्वावस्थागता भर्तुः पादच्छाया विशेष्यते ॥ (अयोध्याकाण्डः २७/९)

११. भर्ता तु खलु नारीणां गुणवान् निर्गुणोऽपि वा ।

धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥

१२. भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ । (अयोध्याकाण्डः २७/५)

१३. भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम् । (अयोध्याकाण्डः ३९/२९)

१४. मितं ददाति हि पिता मितं भ्राता मितं सुतः ।

अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ (अयोध्याकाण्डः ३९/३०)

१५. व्रतोपवासनिरता या नारी परमोत्तमा ।

भर्तारं नानुवर्तेत सा च पापगतिर्भवेत् ॥ (अयोध्याकाण्डः २४/२५)

१६. व्यसनेषु न कृच्छेषु न युद्धेषु स्वयंवरे ।

न कृतौ नो विवाहे वा दर्शनं दूष्यते स्त्रियाः ॥ (युद्धकाण्डः ११४/२८)

१७. शूश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता ।

एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः ॥ (अयोध्याकाण्डः २४/२७)

१८. साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते ।

स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ (अयोध्याकाण्डः ३९/२४)