रामायणसूक्तयः (पापः)

विकिसूक्तिः तः

१. अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च ।

निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान् ॥ (अयोध्याकाण्डः ३६/२९)

२. आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते । (किष्किन्धाकाण्डः ३४/९)

३. कायेन कुरुते पापं मनसा सम्प्रधार्य तत् ।

अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ (अयोध्याकाण्डः १०१/२१)

४. कृतघ्ने नास्ति निष्कृतिः । (किष्किन्धाकाण्डः ३४/१२)

५. न कश्चिन्नापराध्यति । (किष्किन्धाकाण्डः ३६/११)

६. न मिथ्या ऋषिभाषितम् । (युद्धकाण्डः ६०/१२)

७. निष्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः ।

क्रतुमध्योपनीतानां पशूनामिव राघव ॥ (अरण्यकाण्डः ७०/६)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(पापः)&oldid=2992" इत्यस्माद् प्रतिप्राप्तम्