रामायणसूक्तयः (पापी)

विकिसूक्तिः तः

१. अवश्यं लभते कर्ता पुलं पापस्य कर्मणः ।

घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ (अरण्यकाण्डः २९/८)

२. उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।

त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ (अरण्यकाण्डः २९/३)

३. कर्मलोकविरुद्धं तु कुर्वाणं क्षणदाचर ।

तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ (अरण्यकाण्डः २९/१४)

४. न चिरात् प्राप्यते लोके पापानां कर्मणां फलम् ।

सविषणामिवानानां भुक्तानां क्षणदाचर ॥ (अरण्यकाण्डः २९/९)

५. न चिरं पापकर्मणः क्रूरा लोकजुगुत्सिताः ।

ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ (अरण्यकाण्डः २९/७)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(पापी)&oldid=2995" इत्यस्माद् प्रतिप्राप्तम्