रामायणसूक्तयः (पुत्रः)

विकिसूक्तिः तः

१. अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चाभिजायते ।

तस्मात् प्रियतरो मातुः प्रिया एव तु बान्धवाः ॥ (अयोध्याकाण्डः ७४/१४)

२. एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।

तेषां वै समवेतानामपि कश्चिद् गयां ब्रजेत् ॥ (अयोध्याकाण्डः १०७/१३)

३. न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति । (अरण्यकाण्डः २९/७)

४. न सुतान् मन्यते परम् । (अयोध्याकाण्डः ७४/२५)

५. नास्ति पुत्रसमः प्रियः । (अयोध्याकाण्डः ७४/२४)

६. पितुर्हि समतिक्रान्तं पुत्रो यः साधुः मन्यते ।

तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ (अयोध्याकाण्डः १०६/१५)

७. पुन्नाम्नो नरकाद् यस्माद् पितरं त्रायते सुतः ।

तस्मात् पुत्र इति प्रोक्तः पितृन् यः पाति सर्वतः ॥ (अयोध्याकाण्डः १०७/१२)

८. प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।

मातृणां च कनीयांसस्तस्माद् रक्षये कनीयासम् ॥ (बालकाण्डः ६१/१९)

९. विनात्मजेनात्मवतां कुतो रतिः । (अयोध्याकाण्डः १२/१११)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(पुत्रः)&oldid=3001" इत्यस्माद् प्रतिप्राप्तम्