रामायणसूक्तयः (भ्राता)

विकिसूक्तिः तः

१. अयं स समरश्लाघी भ्राता मे शुभलक्षणा ।

यदि पञ्चात्वमापन्नः प्राणैर्मे किं सुखेन वा ॥ (युद्धकाण्डः १०१/५)

२. उत्तरं न हि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।

अधर्मसहितं चैव परलोकविवर्जितम् ॥ (उत्तरकाण्डः ६३/६)

३. देशे-देशे कलत्राणि देशे-देशे च बान्धवाः ।

तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ (युद्धकाण्डः १०१/१५)

४. पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः । (अयोध्याकाण्डः ६२/३३)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(भ्राता)&oldid=3025" इत्यस्माद् प्रतिप्राप्तम्