रामायणसूक्तयः (मन्त्री)

विकिसूक्तिः तः

१. धर्ममर्थं च कामं च यशश्च जयतां वर ।

स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥ (अरण्यकाण्डः ४१/८)

२. न तावत् सदृशं नाम सचिवैरुपजीविभिः ।

विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः ॥ (युद्धकाण्डः २९/७)

३. राजमूलो हि धर्मश्च यशश्च जयतां वर ।

तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपः ॥ (अरण्यकाण्डः ४१/१०)

४. वाक्यमप्रतिकूलं तु मृदुपूर्णं शुभं हितम् ।

उपचारेण वक्तव्यो युक्तं च वसुधाधिपः ॥ (अरण्यकाण्डः ४०/१०)

५. सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।

उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः ॥ (अरण्यकाण्डः ४०/९)

६. सावमर्दं तु यद्वाक्यमथवा हितमुच्यते ।

नाभिनन्देत तद् राजा मानार्थी मानवर्जितम् ॥ (अरण्यकाण्डः ४०/११)