रामायणसूक्तयः (मानवजीवनस्य असमर्थता)

विकिसूक्तिः तः
Jump to navigation Jump to search

१. क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः ।

विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ (उत्तरकाण्डः २०/११)

२. नहि कश्चिन्मया दृष्टो बलवानपि जीवति । (उत्तरकाण्डः २२/३०)

३. नित्यं श्रेयसि सम्मूढं महद्द्भिर्व्यसनैर्वृतम् ।

हन्यात् कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ (उत्तरकाण्डः २०/९)

४. माता-पितृसुतस्नेहभार्याबन्धुमनोरमैः ।

मोहितोऽयं जनो ध्वस्तः क्लेशः स्वं नावबुध्यते ॥ (उत्तरकाण्डः २०/१४)

५. हत एव ह्ययं लोको यदा मृत्युवशं गतः । (उत्तरकाण्डः २०/७)