रामायणसूक्तयः (मित्रम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

१. कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये ।

तान् मृदानपि क्रव्यादाः कृतघ्नात् नोपभुञ्जते ॥ (किष्किन्धाकाण्डः ३०/७३)

२. धर्मलोपो महांस्तावत् कृते ह्यप्रतिकुर्वतः ।

अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ (किष्किन्धाकाण्डः ३३/४७)

३. पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।

कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ (किष्किन्धाकाण्डः ३४/१०)

४. मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । (युद्धकाण्डः २८/३)

५. मैत्रेणेक्षस्व चक्षुषा । (बालकाण्डः ५२/१७)

६. रजतं वा आ सुवर्णं वा शुभान्याभरणानि च ।

अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ (किष्किन्धाकाण्डः ८/७)

७. वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण च ।

न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ (युद्धकाण्डः १६/२)

८. स सुहृद् यो विपन्नार्थं दीनमभ्युपपद्यते ।

स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ॥ (युद्धकाण्डः ६३/२७)

९. सुहृदामर्थकृच्छेषु युक्तं बुद्धिमता सदा ।

समर्थेनोपसंदेष्टुं शाश्वती भूतिमिच्छ्ता ॥ (युद्धकाण्डः १७/३३)

१०. सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् । (युद्धकाण्डः१५७/७७)