रामायणसूक्तयः (मृत्युः)

विकिसूक्तिः तः

१. उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण ।

निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ (अरण्यकाण्डः २४/९)

२. ध्रुवं ह्यकाले मरणं न विद्यते । (अयोध्याकाण्डः २०/५१)

३. नास्ति सर्वामरत्वं हि कस्यचित् प्राणिनो भुवि । (उत्तरकाण्डः ३०/९)

४. परान्तकाले हि गतायुषो नरा ।

हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ (युद्धकाण्डः१६/२६)

५. भगवन् प्राणिनां नित्यं नान्यत्र मरणाद् भयम् । (उत्तरकाण्डः ३०/१६)

६. लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः ।

अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ (सुन्दरकाण्डः २५/१२)

७. सत्यं बतेदं प्रवदन्ति लोके,

नाकालमृत्युर्भवतीति सन्तः । (सुन्दरकाण्डः २८/३)

८. सर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः । (युद्धकाण्डः१११/२९)

९. सहैव म्रुत्युर्व्रजति सह मृत्युर्निषीदति ।

गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ (अयोध्याकाण्डः १०५/२२)