रामायणसूक्तयः (राजदोषः)

विकिसूक्तिः तः

१. पराङ्मुखवधं पापं यः करोति सुरेश्वर ।

स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ (उत्तरकाण्डः ८/४)

२. यद् वा पुरेष्वयुक्तानि जना जनपदेषु च ।

कुर्वते न च रक्षास्ति तदा कालकृतं भयम् ॥ (उत्तरकाण्डः ७३/१६)

३. राज्दोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।

असद्वृत्ते हि नृपतावकाले म्रियते जनः ॥ (उत्तरकाण्डः ७३/१६)