रामायणसूक्तयः (राजनीतिः)
१. अतिमानिनमग्राह्यमात्मसम्भावितं नरम् ।
- क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ (अरण्यकाण्डः ३३/१६)
२. अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
- प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः । (युद्धकाण्डः६३/१४)
३. अनुपायेन कर्माणि विपरीतानि यानि च ।
- क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ (युद्धकाण्डः१२/३१)
४. अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः ।
- कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ (अरण्यकाण्डः ३३/२०)
५. अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः ।
- विश्वस्तानामविश्वस्ताशिछद्रेषु प्रहरन्त्यपि ॥ (किष्किन्धाकाण्डः २/२२)
६. अशास्त्राविदुषां तेषां कार्यं नाभिहितं वचः ।
- अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ (युद्धकाण्डः ६३/१५)
७. उपभुक्तं यथा वासः स्रजो वा मृदिता यथा ।
- एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ (अरण्यकाण्डः ३३/१९)
८. उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् । शूरमैश्वर्यकामं च यो हन्ति न स हन्यते ॥ (अयोध्याकाण्डः १००/२९)
९. एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
- राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ (अयोध्याकाण्डः १००/२४)
१०. कश्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
- क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ (अयोध्याकाण्डः १००/१९)
११. कालातिक्रमेण ह्येव भक्तवेतनयोर्भृताः ।
- भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ (अयोध्याकाण्डः १००/३३)
१२. तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।
- व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ (अरण्यकाण्डः ३३/१५)
१३. न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः । (युद्धकाण्डः २२/१६)
१४. नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा ।
- व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ (अरण्यकाण्डः ३३/२१)
१५. नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
- स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ (अयोध्याकाण्डः ८/२३)
१६. न्यायेन राजकार्याणि यः करोति दशानन ।
- न स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ (युद्धकाण्डः १२/३०)
१७. पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् । (अयोध्याकाण्डः १००/२२)
१८. पूर्वापकारिणं हत्वा न ह्यधर्मेण युज्यते । (अयोध्याकाण्डः ९६/२४)
१९. प्रणिधाय हि चारेण यथावत् सूक्ष्यबुद्धिना ।
- परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः ॥ (युद्धकाण्डः १७/४४)
२०. मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
- सुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ॥ (अयोध्याकाण्डः १००/१६)
२१. मित्राटविबलं चैव मौलभृत्यबलं तथा ।
- सर्वमेतद् बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥ (युद्धकाण्डः १७/४४)
१२. मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
- मूले हि सति सिध्यन्ति गुणाः सर्वे फलोदयाः ॥ (किष्किन्धाकाण्डः ६५/२५)
२३. ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः ।
- ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ (अरण्यकाण्डः ३३/६)
२४. रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः । (अयोध्याकाण्डः १००/४८)
२५. राजा तु धर्मेण हि पालयित्वा
- महीपतिर्दण्डधरः प्रजानाम् ।
- अवाप्य कृत्स्नां वसुधां यथाव -
- दितश्च्युतः स्वर्गमुपैति विद्वान् ॥ (अयोध्याकाण्डः १००/७६)
२६. राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते । (अरण्यकाण्डः ६२/८)
२७. शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः ।
- न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः ॥ (अरण्यकाण्डः ३३/१८)
२८ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।
- लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ॥ (अरण्यकाण्डः ३३/३)
२९. सर्वकाम समृद्धं हि हस्त्यश्वरथसंकुलम् ।
- पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ (युद्धकाण्डः १२५/१६)
३०. संदधानो हि कालेन विगृह्णंश्चारिभिः सह ।
- स्पपक्षे वर्धनं कुर्वन्महदैश्वर्यमश्नुते ॥ (युद्धकाण्डः ३५/८)
३१. स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।
- स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ (अरण्यकाण्डः ३३/४)
३२. हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः ।
- राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः ॥ (युद्धकाण्डः ६३/१३)