रामायणसूक्तयः (रामराज्यम्)

विकिसूक्तिः तः

१. काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।

हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ॥ (उत्तरकाण्डः ९९/१३)

२. न बालो म्रियते तत्र न युवा न च मध्यमः ।

धर्मेण शासितं सर्वं न च बाधा विधीयते ॥ (उत्तरकाण्डः (प्रक्षिप्तः ) १/९)

३. नाधयो व्याधयश्चैव रामे राज्यं प्रशासति ।

पक्वसस्या वसुमती सर्वौषधिसमन्विता ॥ (उत्तरकाण्डः (प्रक्षिप्तः ) १/८)

४. विबुधात्मनि दृश्यन्ते त्वयि वीर प्रशासति ।

अमानुषाणि सत्त्वानि व्यवहृतानि मुहुर्मुहुः ॥ (उत्तरकाण्डः ४१/१७)