सामग्री पर जाएँ

रामायणसूक्तयः (विवेकः)

विकिसूक्तिः तः

१. अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत हि ।

गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥ (युद्धकाण्डः १७/४१)

२. अनागतविधानं तु कर्तव्यं शुभमिच्छता ।

आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥ (अरण्यकाण्डः २४/११)

३. अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः । (अयोध्याकाण्डः १०६/१३)

४. अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै । (युद्धकाण्डः १७/६१)

५. कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः । (अयोध्याकाण्डः ५६/२२)

६. कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् ।

पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ (सुन्दरकाण्डः ४१/५)

७. कीर्त्यर्थं तु समारम्भाः सर्वेषां तु महात्मनाम् । (उत्तरकाण्डः ४५/१३)

८. चित्तनाशाद् विपद्यन्ते सर्वाण्येवेन्द्रियाणि हि ।

क्षीणस्नेहस्य दीपस्य संरक्ता रश्मयो यथा ॥ (अयोध्याकाण्डः ६४/७३)

९. त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत ।

मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ ॥
परदाभिगमनं विना वैरं च रौद्रता । (अरण्यकाण्डः ९/३)

१०. दुर्लभं हि सदा सुखम् । (अयोध्याकाण्डः १८/१३)

११. देशकालोपपन्नं च कार्यं कार्यविदां वर ।

सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥ (युद्धकाण्डः १७/६५)

१२. निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् ।

अवश्यं सुखदुःखेषु नराणां परिदृश्यते ॥ (अरण्यकाण्डः ५२/२)

१३. न वर्धमानोऽग्निरुपेक्षितुं क्षमः । (सुन्दरकाण्डः ४७/२९)

१४. न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।

यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ (सुन्दरकाण्डः ४१/६)

१५. नहि धर्मार्थसिद्ध्यर्थं पानमेव प्रशस्यते ।

पानादर्थश्च कामश्च धर्मश्च परिहीयते ॥ (किष्किन्धाकाण्डः ३३/४६)

१६. प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।

इष्टापूर्तवधो भूयात् ॥ (बालकाण्डः २१/८)

१७. बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज । (उत्तरकाण्डः ८३/२०)

१८. बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।

स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ (किष्किन्धाकाण्डः ७/१०)

१९. बुद्धया युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे । (अरण्यकाण्डः ६६/१६)

२०. मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने । (सुन्दरकाण्डः ११/४२)

२१. ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम् । (किष्किन्धाकाण्डः ९/८)

२२. यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।

पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ (युद्धकाण्डः ६३/५)

२३. यत् कृत्वा न भवेद् धर्मो न कीर्तिर्न यशोध्रुवम् ।

शारीरस्य भवेत् खेदः कस्तत् कर्म समाचरेत् ॥ (अरण्यकाण्डः ५०/१९)

२४. यदन्नः पुरुषो भवति तदन्नस्तस्य देवताः । (अयोध्याकाण्डः १०४/१५)

२५. यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्गते ।

न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ (सुन्दरकाण्डः ११/४४)

२६. लोकापवादो बलवान् येन त्यक्ता हि मैथिली । (उत्तरकाण्डः ९७/४)

२७. विद्यते गोषु सम्पन्नं विद्यते ज्ञातितो भयम् ।

विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः ॥ (युद्धकाण्डः १३/९)

२८. विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । (बालकाण्डः २१/१८)

२९. व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तरो ।

विमृशंश्च स्वया बुद्ध्या धृतिमान् नावसीदति ॥ (किष्किन्धाकाण्डः ७/९)

३०. शोकेनाभिप्रपन्नस्य जीविते चापि संशयः । (किष्किन्धाकाण्डः ७/१३)

३१. स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् ।

तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ (अरण्यकाण्डः ५०/१८)

३२. सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते । (सुन्दरकाण्डः २४/२१)

३३. सुलभाः पुरुषाः राजन् सततं प्रियवादिनः ।

अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ (अरण्यकाण्डः ३७/२)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(विवेकः)&oldid=3092" इत्यस्माद् प्रतिप्राप्तम्