रामायणसूक्तयः (सत्यम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

१. आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । (अयोध्याकाण्डः १४/३)

२. उद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।

धर्मः सत्यपरो लोके मूलं सर्वस्य चोच्यते ॥ (अयोध्याकाण्डः १०९/१२)

३. दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।

वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ (अयोध्याकाण्डः १०९/१४)

४. परत्रवासे हि वदन्त्यनुत्तमं तपोधनाः

सत्यवचोहितं नृणाम् ॥ (अयोध्याकाण्डः ११/२९)

५. भूमिः कीर्तिर्यशोलक्ष्मीः पुरुषं प्रार्थयन्ति हि ।

सत्यं समनुवर्तन्ते सत्यमेव भजेत् ततः ॥ (अयोध्याकाण्डः १०९/२२)

६. सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् । (युद्धकाण्डः ४६/३३)

७. सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः ।

सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम् ॥ (अयोध्याकाण्डः १४/७)

८. सत्यमेवानृशंसं च राजवृत्तं सनातनम् ।

तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ (अयोध्याकाण्डः १०९/१०)

९. सत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः ।

सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ (अयोध्याकाण्डः १०९/१३)

१०. सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः ।

सत्यानुरोधात् समये वेलां स्वां नातिवर्तते ॥(अयोध्याकाण्डः १४/६)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(सत्यम्)&oldid=3112" इत्यस्माद् प्रतिप्राप्तम्