रामायणसूक्तयः (साधुः)

विकिसूक्तिः तः

१. धर्मे रताः सत्पुरुषैः समेता -

स्तेजस्विनो दानगुणप्रधानाः ।
अहिंसका वीतमलाश्च लोके
भवन्ति पूज्या मुनयः प्रधानाः ॥ (अयोध्याकाण्डः १०९/३६)

२. न परः पापमादत्ते परेषां पापकर्मणाम् ।

समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ (युद्धकाण्डः ११३/४४)

३. पापानां वा शुभानां वा वधार्हाणामथापि वा ।

कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ (युद्धकाण्डः ११३/४५)

४. सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । (अरण्यकाण्डः ६८/२४)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(साधुः)&oldid=3115" इत्यस्माद् प्रतिप्राप्तम्