रामायणसूक्तयः (स्वजनस्य श्रेष्ठता)

विकिसूक्तिः तः

१. गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा ।

निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥ (युद्धकाण्डः ८७/१५)

२. यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।

स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते ॥ (युद्धकाण्डः ८७/१३)