राहुशिरोन्यायः

विकिसूक्तिः तः

राहोः शिरः नाम सर्पः छायाग्रहः, राक्षसः इत्यादिकं कथयन्ति केचना परन्तु अस्य कोऽपि निश्चितः अर्थः नास्ति । अनेकाभिः अवस्थाभिः युक्तं राहोः शिरः इति वैयाकरणस्य नागेशस्य मतम् । राहुः कश्चन दानवः आसीत् । <poem> १. द्वावेव ग्रसते दिनेश्वर- निशाप्राणेश्वरौ भास्वरौ । भ्रातः पर्वणि पश्य दानवपतिः शार्षावशॆषाकृतिः ॥

अमृतपानाय उद्युक्तस्य राहोः शिरश्छेदं महाविष्णुः चक्रेण कृतवान् परन्तु ब्रह्मदेवस्य वरबलेन राहुः न मृत इति केचन कथयन्ति । राहुसंवन्धिनः बहवः उल्लेखाः ज्योतिषशास्त्रे सन्ति । ते तावत् लौकिकन्यायसाहस्त्रीतः अवगन्तव्याः (पृष्ठेषु १५९-१६३)

२. जातग्रहत्वेऽपि असितत्त्वात् सूर्यादिग्रहवत् न दृश्यते गगने पर्वकालात् अन्यत्र ब्रह्मवाक्यात् इति । ३. मुखं पुच्छं च यस्य न भवति परम् अङ्गानि भवन्ति सः राहुः इति केषाञ्चन मतम् । (राहोः शिरः इत्यत्र शिरोमात्रावशिष्टस्य राहोः उल्लेखः क्रियते चेदपि यत् शिरः तदेव राहुः इति ? यः राहुः तत् शिरः इति च बोधः । पदार्थद्वयाभावेऽपि राहोः इत्यत्र षष्ठीविभक्त्या कस्य संबन्धः बोध्यते इति विचारः । पदार्थद्वयस्य अभावेऽपि तादृशप्रयोगाः क्रियन्ते भाषायाम् । योगशास्त्रे विकल्प इति एतेषाम् उल्लेखः क्रियते यथा चैतन्यं पुरुषस्य स्वरुपम् इत्यत्र चैतन्यमेव पुरुषः इति कारणेन केन कस्य व्यपदेशः क्रियते इति भाष्ये विवृतम् )

"https://sa.wikiquote.org/w/index.php?title=राहुशिरोन्यायः&oldid=10970" इत्यस्माद् प्रतिप्राप्तम्