रूपं रूपं प्रतिरूपो बभूव...

विकिसूक्तिः तः

रूपं रूपं प्रतिरूपो बभूव
तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते
युक्ता ह्यस्य हरयः शता दशेति ॥ - बृहदारण्यकोपनिषत् २-५-१९

अयं परमात्मा आत्मनः रूपं लोकस्य प्रदर्शनाय रूपं रूपं प्रतिरूपो दृश्यते । सर्वशक्तः
परमात्मा आत्मीयैः 'माया' रूपैः नानोपाधिभिः नानारूपेण अवभासते । अस्य उपाधिरूपाणि
इन्द्रियाणि शताधिकानि दृश्यन्ते ॥

अत्र इन्द्रो नाम सर्वज्ञः परमात्मा । अयमेव परं ब्रह्म । अयम् अनेकोपाधिभिः नानारूपेण
अवभासते । आत्मा एक एव, अविद्याकल्पिताः उपाधयस्तु अनेके । अद्वितीयः परमात्मा
एक एव सन् देवतारूपेण, मनुष्यरूपेण, लोकपञ्चभूतरूपेण, क्रिमिकीटादिरूपेणापि दृश्यते ॥

एतेषां रूपाणां ‘माया’ इति नाम । ‘माया’ इति मिथ्याभासः इत्यर्थः । आत्मनः मिथ्याभासरूपमेव हि इदं जगत् ॥