रेखागवयन्यायः

विकिसूक्तिः तः

गवयः कीदृशः भवति इति केनचित् गवयम् अजानता पृष्टं तदा गवयज्ञः कश्चन रेखाभिः गवयस्य आकृतिं रचयित्वा गवयज्ञानं तस्मै दत्तवान् । ततः परं रेखागयज्ञानं परित्यक्तवान् इति । एवं कश्चन आत्मबोधमार्गे प्रवर्तमानः सन् आदौ शास्त्रात् गुरुपदेशाच्च आत्मनः स्वरुपं जानाति पश्चान् स्वयम् आत्मानुभवं कृत्वा पूर्वंतनं शब्दज्ञानं परित्यजति इति भावः । वेदान्तशास्त्रे अस्य प्रयोगः कृतः – १. वाचस्पतिमिश्र- तात्पर्यटीकायां पृष्ठे ४५७ २. वेदान्तकल्पतरुव्याष्याने पृष्ठे ३६३ (व्याकरणशास्त्रेऽपि रेखागवयन्यायस्य प्रयोगः क्वचित् समुपलभ्यते । भौतपूर्व्यात् सोऽपि रेखागवयादिवदास्थितः ॥ भूषणसारेसमासशाक्तिनिर्णये २९-३०)

"https://sa.wikiquote.org/w/index.php?title=रेखागवयन्यायः&oldid=10972" इत्यस्माद् प्रतिप्राप्तम्