वदनं प्रसादसदनं...
दिखावट
सुभाषितम्
वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषां केषां न ते वन्द्याः ॥
तात्पर्यम्
प्रसन्नं मुखं, करुणापूर्णं हृदयम्, अमृतसदृशानि वचनानि, परोपकारपरः व्यवहारः च येषां भवेत् ते केषां वन्द्याः न ?