वधूमाषमापनन्यायः

विकिसूक्तिः तः

मैथिलीभाषायाः एकं वाक्प्रचारम् आश्रित्य प्रवृत्तः अयं न्यायः । कश्चन कृपणः ब्राह्मणायः दातव्यम् इति पत्न्यै प्रतिदिनं मु । ष्टिपरिमितं माषधान्यं ददाति स्म । तस्य पुत्रस्य विवाहः जातः वधूः गृहम् आगता । तस्याः मुष्टिः अल्पपरिमाणा इति मत्वा सः ब्राह्ममणः याचकेभ्यः त्वमेव धान्यं देहि इति वधूम् उक्तवान् । तथा क्रियते चेत् अधिकधान्यं याचकेभ्यं दातव्यं न भवति इति तस्य चिन्तनम् आसीत् । परन्तु सा वधूः सुन्दरी आसीत् इतिकारणेन तस्याः दर्शनार्थमपि याचकाः आगच्छान्ति स्म । एवं पूर्वापेक्षया अपि अधिकमेव धान्यं याचकेभ्यः प्रतिदिनं देयम् अभवत् । एवं चिन्तितस्य विपरीतम् एव घटितं चेत् अस्य न्यायस्य प्रयोगः भवति । यथा – नच अनवस्था अवश्यवेद्यत्वानभ्युपगमात् निश्चयवदन्यथा तु अनिश्चितनिश्चयस्य नाद्यनिश्चयोऽपि न सिद्ध्यत् न च अस्त्वात्मनिश्चय इति तदिदं वधूमाषमापनवृत्तान्तम् अनुहरति ॥ आत्मविवेके पृष्ठे ८७

"https://sa.wikiquote.org/w/index.php?title=वधूमाषमापनन्यायः&oldid=11028" इत्यस्माद् प्रतिप्राप्तम्