वाक्यभेदन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

एकः प्रधानार्थः यस्मिन् भवति तद् एकं वाक्यम् इति संस्कृतवाक्यरचनायाः नियम् । परन्तु विभक्ताभिव्यक्तिस्थले प्रत्येकं साकाङ्क्षं भवति । “ अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद् विभागेस्यात्” इति मीमांसासूत्रे (२-१-४१) नियमः दर्शितः । एकस्यैव वाक्यस्य खण्डानि जातानि चेत् वाक्यभेद इति दोषः भवति । मीमांसाशास्त्रे खण्डलक्षणं गौरवलक्षणम् इति वाक्यभेदस्य प्रकारद्वयं नर्तते पृथग्वाक्यकल्पना क्रियते चेद् वाक्यभेददोषः । संभवत्येकवाक्यत्वे वाक्यभेदो न युज्यते ॥ मीमांसाशास्त्रानुसारं वाक्यस्य एकभागे विधिः भवति चेत् तदितरभागाः तस्य विधेः अर्थवादरुपाः भवन्ति । वेदाध्ययनानन्तरं धर्मजिज्ञासा कर्तव्या इति कश्चन विधिः अस्ति । तथापि वेदाध्ययनात् पूर्वं धर्मजिज्ञासा न कर्तव्या इति निषेधः तस्य वाक्यस्य अर्थः न भवति । यदि तादृशः अर्थः स्वीकृतः तर्हि एकस्य वाक्यस्य एव पुनः स्वतन्त्रं वाक्यद्वयं भूत्वा वाक्यभेदः भवति यथा – १. वेदाध्ययनात् पूर्वं धर्मजिज्ञासा न कर्तव्या । २. वेदाध्ययनात् अनन्तरम् एव धर्मजिज्ञासा कर्तव्या । (मीमांसासूत्रशास्त्रभाष्ये १-२-१)

"https://sa.wikiquote.org/w/index.php?title=वाक्यभेदन्यायः&oldid=11084" इत्यस्माद् प्रतिप्राप्तम्