वाचोयुक्तिः
दिखावट
वाचोयुक्तिः वाक्प्रपञ्चस्य शोभां वर्धयति । स्वीयैः पदैः चमत्कारयुक्तं विशेषम् अर्थम् अभिव्यञ्जयति । वाचः युक्तिः इति उच्यते चेत् षष्ठीतत्पुरुषसमासः भवति । वाक्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु इत्येतत् किञ्चन वार्तिकं विद्यते । अस्य वार्तिकस्य नियमस्य अनुसारं वाचोयुक्ति इत्यस्मिन् 'वाक्'शब्दस्य षष्ठीविभक्तिप्रत्ययस्य लोपः न जातः । इदम् अलुक्समासः इति उच्यते । वाचोयुक्तयः गणपाठे उपलभ्यते ।
पात्रेसमितादयश्च
[सम्पाद्यताम्]- पात्रेसमितः - केवलं भोजनार्थम् उपस्थितः भवति, न कदापि कार्यार्थम् ।
- गेहेशूरः - गृहे केवलम् अस्य शौर्यम्, अन्येषु कार्येषु न ।
- कूपमण्डूकः - अल्पज्ञः । अस्मिन्नेव अर्थे - उदुम्बरक्रिमिः, कूपकच्छपः, अवटकच्छपः, कुम्भमण्डूकः, उदपानमण्डूकः ।
- नगरकाकः - अन्येषां वञ्चने चतुरः ।
- गर्भे तृप्तः - आजन्मदरिद्रः ।
- आखनिकबकः - गृहे विद्यमानं भुञ्जानः कालं यापयति । (आखनिकः - जलधारा इत्यर्थः) बहिः सम्पादनं न करोति ।
- मातरि पुरुषः / पितरि पुरुषः - गृहे एव मातरं भाययन् भुञ्जानः भवति । बहिः कार्यं न करोति ।
- गेहनर्दी - केवलं गृहे शूरः ।
- पिण्डीशूरः - भोजने शूरः, कार्ये अपि शूरः ।
- गेहमेहि - गृहे एव तिष्ठति । कार्यार्थं बहिः न गच्छति ।
- गेहविचिती - गृहे तिष्ठन् इदं युक्तम् इदम् अनुक्तम् इति कथयति । किन्तु कार्यावधौ न कथयति ।
- नगरश्वा - अविनीतः, दार्ष्ट्यबुद्धिः यः सः ।
- कर्णेटिरिटिरा - श्रोतॄणाम् आसक्त्यादिकम् अपरिगणयन् यः निरन्तरं रटति सः । अस्मिन्नेव अर्थे - कर्णे चुरुचुराः
- पात्रेबहुलः
- उदुम्बरमशकः
- नगरवायसः
- गेहेक्ष्वेडी
- गेहेविजिती
- गेहेव्याडः
- गेहेदाहौ
- गेहेदृप्तः
- गेहेधृष्टः
- गोष्ठेशूरः
- गोष्ठेविजिती
- गोष्ठेक्ष्वेडी
- गोष्ठेपटुः
- गोष्ठेपण्डितः
- गोष्ठेप्रगल्भः
मयूरव्यंसकादयश्च
[सम्पाद्यताम्]- अश्नीतपिबता पचतभृज्जता खादतमोदता/खादतवमता- खादनपानादिकम्
उदा - राज्ञो दशरथस्य अश्वमेधयागे महती भोजनव्यवस्था बभूव । सर्वदा अश्नीत पिबता, खादत मोदता च समभवत् ।
- एहिरेयाहिरा - अये अत्र आगच्छ, तत्र गच्छ इति अगौरेण आज्ञाकरणाय अयं शब्दः उपयुज्यते ।
उदा - नाहं तस्य धनिकस्य गृहे स्थास्यामि । सर्वदा एहिरेयाहिरा इति मां पीडयति ।
- कणेहत्य-मनोहत्य - कण्ठपूर्ति - आतृप्ति
उदा - कणेहत्यसुरां पिबति, मनोहत्य पुष्पाणि पश्यति
- कुतुपसौश्रुतः - 'कुतुप' - (मेषस्य) ऊर्णेन सज्जीकृतं कम्बलम् । इदं सर्वदा यः धरति सः कुतुपसौश्रुतः ।
- अजातौल्वलि - अजानां क्रयविक्रयणं यःकरोति सः अजातौल्वलिः ।
- उष्ट्रकोशी - उष्ट्रः इव यः कूजति सः ।
- काकरावी - काकः इव कूजति ।
- मयूरव्यंसकः
- छात्रव्यंसकः
- कम्बोजमुण्डः
- यवनमुण्डः
- हस्तेगृह्यः/हस्तगृह्यः
- पादेगृह्यः/पादगृह्यः
- लाङ्गूलेगृह्यः/लाङ्गूलगृह्यः
- पुनर्दायः
- एहीडम्
- एहियवम्
- एहिवणिजा - शाकविक्रयिकं गृहिणी एवम् आह्वयति ।
- अपेहिवाणिजा - कलहं कृत्वा विक्रयिकं गृहात् प्रेषणक्रिया अपेहिवणिजा इति कथ्यते ।
- प्रेहिवाणिजा
- एहिस्वागता
- अपेहिस्वागता
- एहिद्वितीया
- अपेहिद्वितीया
- प्रैहिद्वितीया
- एहिकटा
- अपेहिकटा
- प्रेहिकटा
- आहरकटा
- प्रेहिकर्दमा
- प्रोहकर्दमा
- विधमचूडा
- उद्धमचुडा/उद्धरचूडा
- आहरचेला
- आहरवसना/आहरसेना
- आहरवनिता/आहरविनता
- कृन्तविचक्षणा
- उद्धरोत्सृजा
- उद्धरावसृजा
- उद्धमविधमा
- उत्पचनिपचा
- उत्पतनिपता
- उच्चनीचम्
- आचोपचम्
- आचपराचम्/नखप्रचम्
- निश्चप्रचम्
- अकिञ्चन
- स्नात्वाकालकः
- पीत्वास्थिरकः
- भुक्त्वासुहितः
- प्रोष्यपापीयान्
- उत्पत्यपाकला
- निपत्यरोहिणी
- निषण्णश्यामा
- अपेहिप्रघसा
- एहिविघसा
- इहपञ्चमी
- इहद्वितीया
- जहिजोडः/जहिजोडम्
- जहिस्तम्बम्/जहिस्तम्बः/उज्जहिस्तम्बम्
- आख्यातमाख्यातेन
- आहरनिवपा
- आहरनिष्किरा/आवपनिष्करा
- उत्पचविपचा
- भिन्धिलवणा
- कृन्धिविचक्षणा
- पचलवणा
- पचप्रकूटा
- अकुतोभयः
- कान्दिशीकः/कान्दिशीकः
- आहोपुरुषिका अहमहमिका
- यदृच्छा
- उन्मृजावमृजा
- द्रव्यान्तरम्
- अवश्यकार्यम्
अन्याः
[सम्पाद्यताम्]- खट्वारूढः - अविनीतः इत्यर्थः । ब्रह्मचारिभिः अध्ययनावसरे खट्वायाः (मञ्चस्य) आरोहणं न करणीयमित्यस्ति नियमः ।
- लालाटिकः - सेवकः । स्वामिनः कथनम् अनवगच्छन् तदीयं ललाटमेव पश्यन् यः तिष्ठेत् सः ।
- कौक्कुटिकः - संन्यासी । कुक्कुरस्य चलनादीनाम् आधारेण भविष्यं यः कथयति सः ।