विकासयति सद्भावान्...
दिखावट
सुभाषितम्
विकासयति सद्भावान् विलोपयति दुर्गुणान् ।
विनाशयति विद्वेषान् कार्यं सङ्घटनात्मकम् ॥
तात्पर्यम्
सङ्घटनेन युक्तं कार्यम् उत्तमान् भावान् विकासयति, दुष्टान् गुणान् नाशयति । विविधान् द्वेषान् विनाशयति च ।