विद्या ददाति विनयं...

विकिसूक्तिः तः

सुभाषितम्

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद् धनमाप्नोति धनाद्धर्मस्ततः सुखम् ॥




तात्पर्यम्

विद्यया विनयः, विनयेन योग्यता, योग्यतया धनं, धनेन धर्मः, धर्मेण च सुखं प्राप्यते ।

"https://sa.wikiquote.org/w/index.php?title=विद्या_ददाति_विनयं...&oldid=15001" इत्यस्माद् प्रतिप्राप्तम्