विषकृमिन्यायः

विकिसूक्तिः तः

क्वचित् परिस्थितिः अन्येषां कृते हानिकारिणी भवेत् परन्तु तस्याम् एव परिस्थितौ जातानां कृते हानिकारिणी न भवेत् । विषे एव जातः कृमिः विषेण न म्रियते । तस्य उपरि विषस्य कोऽपि प्रभावः न भवति । यथा – <poem> विप्रास्मिन् नगरे महान् कथय कस्तालदृमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परदारवित्तहरणे सर्वोऽपि दक्षो जनः कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥ - वृद्धचाणाक्यस्य

"https://sa.wikiquote.org/w/index.php?title=विषकृमिन्यायः&oldid=11106" इत्यस्माद् प्रतिप्राप्तम्