वृत्तं यत्नेन संरक्षेत्...

विकिसूक्तिः तः

सुभाषितम्

वृत्तं यत्नेन संरक्षेत् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥




तात्पर्यम्

प्रयत्नपूर्वकं शीलं रक्षणीयम् । धनं सकृत् आगच्छेत् । सकृत् गच्छेत् । यतः धनेन यः दरिद्रः सः न दरिद्रः । किन्तु शीलेन यः दरिद्रः सः जीवन्नपि मृतप्रायः ।








ategory:शीलम्]]