तन्मे मनः शिवसङ्कल्पमस्तु ॥

विकिसूक्तिः तः
(वेदसूक्तिः/तन्मे मनः शिवसङ्कल्पमस्तु ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

तन्मे मनः शिवसङ्कल्पमस्तु ॥ (यजुर्वेदः ३४-१)[सम्पाद्यताम्]

मम मनः मङ्गलसङ्कल्पैः युक्तं भवतु ।

कार्याणि शुभकराणि स्युः, अशुभकराणि स्युः । किन्तु एतेषां पृष्ठतः किञ्चन मनः सक्रियं भवति । तस्य प्रेरणानुगुणं मङ्गलकार्याणि अमङ्गलकार्याणि वा सम्पद्यन्ते । कदाचित् अस्माकं वचनस्य अग्रिमे स्तरे भवति मङ्गलम् अमङ्गलं वा कार्यम् । तस्य वचनस्य पृष्ठभूमिकायामपि तदेव मनः कार्यं कुर्वत् तिष्ठति । अमङ्गलानि कार्याणि न भवेयुः इति चेत् मनः सत्प्रेरणां दद्यात् । दुष्टस्वभावात् दूरं तिष्ठेत् । अनिगृहीतं मनः स्वेच्छानुसारं प्रेरयति । के अस्य निगृहीतारः ? वयमेव !! मनसः प्रेरयितारः वयमेव, अस्मासु विद्यमानाः संस्काराः एव ! मङ्गलकार्याणाम् आरम्भः इतः भवेत् । आत्मविमर्शेन अस्माकं संस्काराः अभिज्ञातव्याः । मनः यथा शुभसंस्कारैः प्रचोदितं स्यात्, तस्मिन् मङ्गलसङ्कल्पाः यथा स्युः तथा अवधातव्यम् । अस्माकं कृते अन्येभ्यश्च यत् स्थिरतां शान्तिञ्च प्रयच्छेत् तदेव मङ्गलकरम् । ततः अस्माकं वचनं व्यवहारश्च भवति मङ्गलकरम् ।