व्रतं कृणुत ॥
(वेदसूक्तिः/व्रतं कृणुत ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
व्रतं कृणुत ॥ (यजु ४-११)
[सम्पाद्यताम्]व्रतं पालय ।
- वृतु वर्तने इति अस्य धातुः । नैरन्तर्येण यद् पाल्यते तत् व्रतम् । अहिंसा, सत्यम्, अस्तेयः, ब्रह्मचर्या, अपरिग्रहः, शौचम्, सन्तोषः, तपः (सद्गतिं दुर्गतिञ्च समानतया स्वीकरणम्), स्वाध्यायः (आत्मपरिशीलनम्, वेदानुकूलग्रन्थानाम् अध्ययनम्), ईश्वरप्रणिधानम् (भगवदर्पणम्) - एतानि एव महाव्रतानि । आजीवनम् अवश्यं पालनीयानि व्रतानि एतानि ।