स्वेन क्रतुना सं वदेत ॥

विकिसूक्तिः तः
(वेदसूक्तिः/स्वेन क्रतुना सं वदेत ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

स्वेन क्रतुना सं वदेत ॥ (ऋग्वेदः १०-३१-२)[सम्पाद्यताम्]

स्वीयैः कार्यैः सम्भाषणीयम्

संभाषणं मुखस्य कार्यं, तर्हि किमेतत् विचित्रं वचनम् ! वयं बहुधा सम्भाषणं करवाम । तेषां वचनानां मौल्यं कुतः ? ये अस्माकं वचनानि शृण्युः ते अस्माकं व्यवहारमपि अवलोकमानाः भवन्ति ! अस्माकं वचनानुसारं व्यवहारः अस्ति चेदेव तत् भवेत् मौल्ययुतम् । अन्यथा वचनं युक्तञ्चेदपि तस्य प्रभावः भवति अगण्यम् ! अस्माकं वचनानुसारं वयमेव न आचराम चेत् कः तस्य अर्थः ? अस्माकं वचनेषु वयमेव न विश्वसिमः इति खलु ? अस्मद्वचने अस्मासु एव अविद्यमानः विश्वासः अन्येषां कथं भवितुम् अर्हेत् ?! सारः अयम् - वचनात् आचरणं गरीयसि । वचनस्य मूल्यम् आचरणम् अवलम्बते । तर्हि आचरणमात्रम् अलं ननु इति चेत् आम् इति वदति इयं सूक्तिः । इदमेव रहस्यम् - वचनम् आदौ एव अवधानम् आकर्षति । किन्तु कृतिः परिणामस्तरे आकर्षति । वचनस्तरे प्रश्न-संशयादीनाम् प्रसक्तिः भवेत् । किन्तु परिणामस्तरे अस्य कस्यापि अवसरः न भवति एव । अनेन इदं भवति दृढं वचनम् !