वेदाहमेतं पुरुषं महान्तम्...

विकिसूक्तिः तः

वेदाहमेतं पुरुषं महान्तम्
आदित्यवर्णं तमसः परस्तात् ।
तमेव विदित्वा अतिमृत्युमेति
नान्यः पन्था विद्यतेऽयनाय ॥ - श्वेताश्वतरोपनिषत् ३-८

तमसः परस्तात्, आदित्यवर्णं, तं महान्तं पुरुषम् अहम् विदित्वा धन्योऽस्मि । हे मानवाः, तम्
आत्मानं ज्ञात्वा यूयमपि मृत्युं तरथ, अमृतत्वं प्राप्तुम् आत्मज्ञानात् मार्गान्तरं नास्त्येव ॥

परब्रह्म स्वस्वरूपत्वेन विज्ञाय कृतार्थस्य महर्षेः सानन्दः धीरः उद्गारोऽयम् । स्वयं परमात्मैव इति
अनुभूय ऋषिः एवम् उद्घोषयति । 'अहम् अदित्यवत् भास्वरूपम् आत्मानं दृष्टवानस्मि, अनेन ज्ञानेन
अहं कृतार्थोऽस्मि । अहो ! आत्मज्ञानस्य महिमा कियान् ! अहहा, आत्मज्ञानस्य फलम् अमृतत्वम् अद्भुतमिव' ॥

अनन्तरं च तस्य ज्ञानिनः सन्देशोऽयम् 'हे मानवाः इमम् आत्मानम् एवं ज्ञात्वा यूयमपि अमृतात्मानः भवथ,
आत्मज्ञानादेव युष्माकं मुक्तिः, कैवल्यम् । मोक्षाय अन्यः मार्ग एव नास्ति' ॥