वेदैरनेकैरहमेव वेद्यो...

विकिसूक्तिः तः

वेदैरनेकैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्मदेहेन्द्रियबुद्धिरस्ति ॥ - कैवल्योपनिषत् १-२२

अनेकैः वेदैः वेद्यः परमः आत्मा अहमेव, वेदान्तसम्प्रदायप्रवर्तकः अहमेव, वेदार्थरहस्यवित्
अहमेव; मम पुण्यपापे न भवतः, न जन्ममरणे मम स्तः, मम देहेन्द्रियबुद्धयः न सन्ति इत्येवं
ज्ञानी आत्मानं विजानाति ।

ब्रह्मज्ञानिनाम् अज्ञानिनां च सामान्यजनदृष्ट्या न कोऽपि भेदो दृश्यते । बाह्यदृष्ट्या, व्यावहारिकदृष्ट्या
उभावपि समानौ । उभयोरपि आहारविहारवागादिव्यवहाराः समाना एव । तर्हि ब्रह्मज्ञानिनः विशेषः कः ?
इति चेत् । अयं मन्त्रः उत्तरं वदति ।

परब्रह्मैव अहम्, नाहं देहेन्द्रियाणि, पुण्यपापसम्बन्धो नास्ति मम जन्ममरणरहितोऽहम्; निर्गुणः
निरुपाधिकः निरवयवः परमात्मैव अहमस्मि- इति निश्चयानुभवसम्पन्नो ज्ञानी, ब्रह्मस्वरूपोऽयम्
ब्रह्मनिष्ठोऽयम् ब्रह्मभूतोऽयम् ॥