वेपथुर्मलिनं वक्त्रं...

विकिसूक्तिः तः
(वेपथुर्मलिनं वक्त्रं इत्यस्मात् पुनर्निर्दिष्टम्)

सुभाषितम्

वेपथुर्मलिनं वक्त्रं दीना वाग्गद्गदः स्वरः।
मरणे यानि चिह्नानि तानि चिह्नानि याचके॥

vepathurmalinaṃ vaktraṃ dīnā vāggadgadaḥ svaraḥ।
maraṇe yāni cihnāni tāni cihnāni yācake॥

पदच्छेदः

वेपथुः मलिनं वक्त्रं दीना वाक् गद्गदः स्वरः मरणे यानि चिह्नानि तानि चिह्नानि याचके।


तात्पर्यम्

शरीरे कम्पनं, मुखे म्लानता, वचसि दैन्यं स्वरे गद्गदता‍‌‍‌(भयेन कम्पनम्) इत्येतानि लक्षणानि मरणे भवन्ति। तानि एव लक्षणानि याचकेऽपि भवन्ति । आङ्लार्थः