व्यभिचारिणीन्यायः

विकिसूक्तिः तः

यथा काचित् व्यभिचारिणी स्त्री गृहकार्य कुर्वती अपि पुरा प्राप्तं परसड्गमस्य आनन्दं स्मरन्ती आनन्दति तथा ज्ञानी पुरुषः लौकिकव्यवहारेषु प्रवृत्तः अपि ब्रह्मानन्दम् अनुभवति इति भावः । यथा- <poem> यथा व्यसनिनी नारी व्यग्राऽपि गृहकर्मणि । तदेवास्वादयत्यन्तः परसड् गरसायनम् ॥ एवं तत्त्वे पदे शुद्धे धीरोविश्रान्ति मागतः । तदेवास्वादयत्यन्तः बहिर्व्यवहरन्नपि ॥ लौकिकन्यायसाहस्त्रीतः (सा. ४५७)

"https://sa.wikiquote.org/w/index.php?title=व्यभिचारिणीन्यायः&oldid=11141" इत्यस्माद् प्रतिप्राप्तम्