सामग्री पर जाएँ

शतशतकोटिशरत्पर्यन्तं...

विकिसूक्तिः तः

शतशतकोटिशरत्पर्यन्तं...


 
शतशतकोटिशरत्पर्यन्तं
प्रवहताऽत् संस्कृतमन्दाकिनी ॥

सिन्धु-सुतुद्रीसरस्वतीनां
तटे ऋषीणां ध्यानपराणाम् ।
होमधूम-पावित-लोकानाम्
अत्रिभृगूणां छन्दोवाणी ॥१॥

वाल्मीकिमुनि-व्यासविरचिता
रामकृष्णयो: पावनगाथा ।
अखण्डदीपो भगवद्गीता
कर्मयोग-सन्देश-दायिनी ॥ ॥२॥

इयमस्माकं धर्मभारतीव्व्
राष्ट्रैक्यस्य च महती स्फूर्ति:
विना संस्कृतं नैव संस्कृति:
इह परत्र कल्याणकारिणी ॥ ॥३॥


-