शतेषु जायते शूरः...

विकिसूक्तिः तः

सुभाषितम्

शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा ॥




तात्पर्यम्

शतेषु कश्चन शूरः जायते । सहस्रजनेषु कश्चन पण्डितः भवति । दशसहस्रेषु जनेषु वक्ता एकः भवति, किन्तु दानी भवति वा न वा न ज्ञायते ।







शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु श्रोता भवति वा न वा ॥




तात्पर्यम्

शतेषु कश्चन शूरः जायते । सहस्रजनेषु कश्चन पण्डितः भवति । दशसहस्रेषु जनेषु वक्ता एकः भवति, किन्तु श्रोता भवति वा न वा न ज्ञायते ।

"https://sa.wikiquote.org/w/index.php?title=शतेषु_जायते_शूरः...&oldid=15008" इत्यस्माद् प्रतिप्राप्तम्