शमयति गजानन्यान्...

विकिसूक्तिः तः

सुभाषितम्

शमयति गजानन्यान् गन्धद्विपः कलभोऽपि
सम्भवति सुतरां वेगोदग्रं भुजङ्गशिशोर्विषम् ।
भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं
न खलु वयसा जात्यैवायं स्वकार्यसहो भरः ॥

śamayati gajānanyān gandhadvipaḥ kalabho:'pi
sambhavati sutarāṃ vegodagraṃ bhujaṅgaśiśorviṣam ।
bhuvamadhipatirbālāvastho:'pyalaṃ parirakṣituṃ
na khalu vayasā jātyaivāyaṃ svakāryasaho bharaḥ ।।

पदच्छेदः

शमयति, गजान्, अन्यान्, गन्धद्विपः, कलभः, अपि, सम्भवति, सुतरां, वेग, उदग्रं, भुजङ्गशिशोः, विषम्, भुवम्, अधिपतिः, बालावस्थः, अपि, अल्पं, परिरक्षितुं, न, खलु, वयसा, जात्या, एव, अयं, स्वकार्यसहः, भरः ।


तात्पर्यम्

बालगजः अपि मदेन उन्मत्तः चेत् अन्यान् गजान् जयति । लघुसर्पः अपि तस्य विषः उग्रः एव भवति । राजा बालः चेदपि राज्यम् पालयितुं समर्थः भवति । जनाः स्व वयसा जात्या वा कर्म आचरन्ति इति नास्ति ।

"https://sa.wikiquote.org/w/index.php?title=शमयति_गजानन्यान्...&oldid=16807" इत्यस्माद् प्रतिप्राप्तम्