शरीरं मे विचर्षणम्...
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् ॥ - तैत्तिरीयोपनिषत् १-४
मम शरीरं नीरोगं सत् आत्मज्ञानप्राप्तियोग्यं भवतु । मम जिह्वा मधुमती भवतु । अहं कर्णाभ्यां
ब्रह्मविचारमेव सदा शृणुयाम् ॥
मुमुक्षुसाधकः प्रणवस्वरूपं परमात्मानम् अस्मिन् मन्त्रे एवं प्रार्थयते । 'भोः परमात्मन्, मम शरीरं
रोगवर्जितं सत् आत्मज्ञानप्राप्तियोग्यं भवतु ।' आत्मज्ञानमेव मानवशरीरस्य, मानवजन्मनः परमं प्रयोजनम् ।
आरोग्यं हि न विषयभोगाय, किं तु आत्मज्ञानाय । आरोग्ये सत्येव खलु श्रवणादिद्वारा ज्ञानप्राप्तिर्भवति ?
दैवदत्तया जिह्वया नाहं कञ्चिदपि निन्देयम् । मनुष्याय भगवता दत्ता महति सम्पत् नाम जिह्वा । अनया
रसनया मधुरमेव वचः अहं वदेयम् । श्रोत्राभ्यां सदा अहं वेदान्तसन्देशमेव शृणुयाम् । ब्रह्मैवेदं विश्वम्, आमैवेदं
सर्वम्, अहं ब्रह्मास्मि, ईशावास्यमिदं सर्वम्- इत्यादिरूपान् पवित्रान् वेदान्तसन्देशानेव वयं सर्वदा शृणुयाम
इति हि मुमुक्षोः प्रार्थना ॥