शारदे नृत्यतु मम वदने...
दिखावट
शारदे नृत्यतु मम वदने....
शारदे,
गानविशारदे !
विलसतु भवती मानससदने ।
संस्कृतभाषाभूषितवेषा
नृत्यतु नित्यं मम वदने ।।
ऋषिमुनिगदितानि वेदपुराणानि
दार्शनिकानां विविधमतानि ।
कविवररचितानि काव्यनाट्यादीनि
भवन्तु भारति भवदाभरणानि ।।
वीणानिनाद इव नादमयी वाणी
प्रभवतु कण्ठे भवती दयया ।
जगदखिलं नयतु नादविलीनं
शान्तिमयं भवतु मनुकुलहृदयम् ।।
-गुण्ड्मि गणपय्यहोळकः