शास्त्राण्यधीत्यापि...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
शास्त्राण्यधीत्यापि भवन्ति मूर्खाः
यस्तु क्रियावान् पुरुषस्स विद्वान् ।
सुचिन्तितं चौषधमातुराणां
न नाममात्रेण करोत्यरोगम् ॥
तात्पर्यम्
शास्त्राणि अधीतवन्तः जनाः अपि कदाचित् मूर्खाः स्युः । स्वीयं ज्ञानं आचरणे यः आनयेत् सः एव वस्तुतः पण्डितः । समीचीनतया विचिन्त्य उक्तस्य औषधस्य नामश्रवणमात्रेण कोपि रुग्णः स्वस्थः न भविष्यति ।