शृण्वन्तोऽपि बहवो...

विकिसूक्तिः तः

शृण्वन्तोऽपि बहवो यं न विद्युः । काठकोपनिषत् १-२-७

वेदान्तेषु प्रतिपादितं प्रत्यगात्मतत्त्वं सद्गुरुभ्यः शृण्वन्तोऽपि
अनेके एनं प्रत्यगात्मानं सम्यक् न जानीयुः ।

सामान्यतः अस्मिन् काले सर्वेऽपि मानवाः विषयभोगनिरताः
इन्द्रियलोलुपाः सन्तः कालं यापयन्ति । तत्रापि केचित् कर्माणि
उपासनानि च श्रद्धया कुर्वन्तः, तेन जनप्रियतां सम्पादयन्तः तत्र
तत्र लभ्येरन् । अपि तु वेदान्तवाक्यार्थश्रवणं कुर्वन्तः वेदान्तविचारं
च कुर्वाणाः जिज्ञासुजनाः दुर्लभा एव भवन्ति । उपनिषदां सन्देशान्
बोधयन्तः उपन्यासकाश्च अल्पीयांस एव भवन्ति । यद्यपि तादृशाः
उपन्यासकाः आत्मविचारम् उपदिशन्ति, तथापि तादृशं विचारं श्रद्धया
तत्पराः सन्तः शृण्वन्त एव जनाः न दृश्यन्ते ॥

मनोरंजनतया वेदान्तान् शृण्वन्तः जनाः यद्यपि दृश्यन्ते तथापि
श्रुतार्थं मनननिदिध्यासनद्वारा अनुभवे पश्यन्तः उत्तमाधिकारिणः
दुर्लभा एव भवन्ति । प्रत्यक्षप्रमाणागोचरं परिशुद्धमात्मानं विज्ञातुं
कष्टमेव भवेत् । विवेक वैराग्य शमादि मुमुक्षुत्व साधनसम्पन्नैः
साधकैः आत्मज्ञानं श्रवणद्वारा लभ्येत ॥

"https://sa.wikiquote.org/w/index.php?title=शृण्वन्तोऽपि_बहवो...&oldid=16321" इत्यस्माद् प्रतिप्राप्तम्