श्रद्धया देयम् । अश्रद्धयाऽदेयम्...

विकिसूक्तिः तः

श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् ॥ - तैत्तिरीयोपनिषत् १-११

श्रद्धया देयम्, अश्रद्धया न देयम्; सम्पदानुगुण्येन देयम्, ह्रिया देयम्, भयेन देयम् । ज्ञात्वा एव देयम् ॥

वेदेषु यज्ञदानतपांसि विहितानि सन्ति । गृहस्थैः अवश्यम् एतानि अनुष्ठेयान्येव । प्रकृतमन्त्रे दानस्य विचारः क्रियते ।
श्रद्धया दानं कर्तव्यम् । गुरुशास्त्रवाक्येषु विश्वासः श्रद्धा शास्त्रीयेषु कर्मसु श्रद्धा एव प्रधानम् । अतः श्रद्धयैव हि शास्त्रीयाणि कर्माणि कर्तव्यानि ॥

दानम् अश्रद्धया कृतं चेत् भस्मनि हुतं हविरिव व्यर्थं भवति । अतः अश्रद्धया दानं न कर्तव्यम् । सम्पदम् अनुसृत्य देयम् ।
श्रीमता अधिकमेव देयम् । दरिद्रेण तु स्वसामर्थ्यानुगुण्येन दातव्यम् । सङ्कोचस्वभावेन भयभक्त्या देयम् । दानेन सर्वपापक्षयः,
दानेन सर्वकामावाप्तिः । अश्रद्धया हुतं दत्तं तपस्तप्तं चेत् सर्वं तत् निष्फलमेव भवति । अतः श्रद्धयैव दानं कर्तव्यम् ॥