सामग्री पर जाएँ

श्री अरविन्दः

विकिसूक्तिः तः
मानवानां मनः, भावः, बौद्धिकासक्तयः अपरिमितरूपेण भिद्यते इत्यतः अनन्तस्य प्राप्तौ सर्वः अपि स्वीयं चिन्तनमार्गं पूजाविधानं च अनुसर्तुं सम्पूर्णं स्वातन्त्र्र्यं स्यात् एव इत्येतत् सर्वदा स्पष्टम् अभावयत् भारतीयधर्मः

श्री अरविन्दः (१५ आगस्ट् १८७२ - ५ डिसेम्बर् १९५०) भारतीयराष्ट्रवादी, विद्वान्, कविः, तत्त्वशास्त्रज्ञः, योगी, अध्यात्मगुरुश्च आसीत् ।

अमृतवचनानि

[सम्पाद्यताम्]
  • भारतस्य उत्थानम् अवश्यम्भावि अस्ति । अत्र प्रवर्तमाना: सर्वा: घटना:, सर्वा: प्रतिकूलता:, सर्वाणि कष्टानि चापि साधनानि एव । लक्ष्यप्राप्तये उपकारकाणि भवन्ति तानि । सूर्योदय: जायमान: अस्ति । प्रकाश: यदा उदित: भवति तदा अन्धकार: सम्पूर्णतया विलयं गच्छति । भारतभाग्यसूर्योदय: अवश्यं भविष्यति, यश्च स्वस्य आध्यात्मिकप्रकाशं भारते प्रसारयिष्यति, तेनैव सह, समग्रं विश्वं तेन प्रकाशेन आप्लावयिष्यति च ।
  • अष्टादश-नवदश-शताब्दीकाले भारतीयसंस्कृत्या अवनते: पराकाष्ठा एव सम्प्राप्ता आसीत् । एष: इदानीं तादृश: सन्ध्याकाल: अस्ति, यत्र भारतीय-धारणानुगुणं नवयुगस्य शुभारम्भ: भवेत् । एष: तादृश: क्षण:, यत्र च बलात् आरोपित: युरोपीयसंस्कृतिभार: पुनर्जागरणम् अनिवार्यम् अकरोत् । यदा भारतस्य पुनर्जागरणं पूर्णत: सम्पद्येत तदा तादृशं चैतन्यं प्राप्येत, यच्च जर्मनीयचैतन्यवत् क्रूरं न भवेत्, प्रत्युत तत् भारतीयात्मतत्त्वस्य वास्तविकस्वभाव- सामर्थ्यानुगुणं भवेत् । (प्रस्तावना, मा. दत्तोपन्तठेङ्गडी, पृ. 347)
  • केचन उदात्ता: महान्त: गहना: विचारा: अस्माकं मनसि सन्ति । वयं भारतस्य आत्मन: आवश्यकताया: च अनुरूपां शिक्षाप्रणालीम् अन्विष्यन्त: स्म: । सा अतीतं प्रति, भारतस्य विकसन्तम् आत्मानं प्रति, तस्य भविष्यस्य आवश्यकतां प्रति, तस्य भाविनीं स्वयंसृष्टि प्रति, तस्य सनातनचैतन्यं प्रति च प्रगाढाम् आस्थां निर्मेयात् ।
  • उत्तिष्ठ भो जागृहि सर्जयाग्नीन्
साक्षाद्धि तेजोऽसि परस्य शौरेः ।
वक्षःस्थितेनैव सनातनेन
शत्रून् हुताशेन दहन्नटस्व ॥ (भवानी भारती १८)
"https://sa.wikiquote.org/w/index.php?title=श्री_अरविन्दः&oldid=17532" इत्यस्माद् प्रतिप्राप्तम्