श्रोत्रियस्य चाकामहतस्य...

विकिसूक्तिः तः

श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको
ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ - तैत्तिरीयोपनिषत् २-८-३

श्रोत्रियस्य अकामहतस्य साधकस्य प्रजापतिशतगुणः आनन्दः लभ्यते । परब्रह्मणः एकोंऽशः
आनन्दोऽयम् । अयम् आनन्दः श्रोत्रियस्य अकामहतस्य साधकस्य प्राप्यते ॥

अयं भागः ‘आनन्दमीमांसा’ इति कथ्यते । मानवानन्दात् आरभ्य शतगुणम् अधिकम् उत्तरोत्तरम्
आनन्दाः उपदिश्यन्ते । देवानाम् आनन्दः, इन्द्रस्य आनन्दः, बृहस्पतेरानन्दः; प्रजापतेरानन्द पर्यन्तं
शतगुणम् आनन्दः अधिको भवति । इमान् आनन्दान् अत्रैव जन्मनि अनुभवितुम् इच्छति चेत् सः इमाम्
योग्यतां सम्पादयेत् ॥

१. श्रोत्रियो भवेत् । शास्त्रोक्तकर्मानुष्ठानतत्परो भवेत् ।
२. अकामहतो भवेत् । नीचविषयभोगेभ्यः विरक्तः सन् तुच्छविषयभोगेभ्यः दूरस्थो भवेत् ।
३. अवृजिनो भवेत् । शास्त्रनिषिद्धपापकर्मविदूरो भवेत्